Chapter – 2 द्वितीयः पाठः गुणवती कन्या Dwiteey Patha: Gunawati Kanya NCERT Shemushi Class X (Subject Code-122)


द्वितीयः पाठः
गुणवती कन्या
          प्रस्तुत पाठ महाकवि दण्डी द्वारा रचित दशकुमारचरित नामक गद्यकाव्य के षष्ठ उच्छ्वास से सम्पादित कर संकलित है। यहाँ मित्रगुप्त अपने विचित्र वृत्तान्त के अन्तर्गत गोमिनी नामक कन्या की कथा सुनाता है जो एक प्रस्थ (32 पलों के बराबर) धान से एक व्यक्ति को सम्पूर्ण भोजन कराने का प्रबन्ध करती है।
          अस्ति द्रविडेषु काञ्ची नाम नगरी। तस्यामनेककोटिसारः श्रेष्ठिपुत्रः शक्तिकुमारो नामासीत्। सोऽष्टादशवर्षदेशीयः चिन्तामापन्नः’नास्त्यदाराणाम् अननुगुणदाराणां वा सुखम्। तत्कथं नु गुणवद् विन्देयं कलत्रम्।स वस्त्रान्तपिनद्धशालिप्रस्थो दारग्रहणाय भुवमभ्रमत्। यां कामपि लक्षणवतीं कन्यां विलोक्य स पृच्छति’भद्रे! शक्नोषि किमनेन शालिप्रस्थेन गुणवदन्नम् अस्मान् भोजयितुम्?’ एवं कृते स हसितावधूतः गृहाद् गृहं प्रविश्याभ्रमत्।
          एकदा स कावेरीतीरपत्तने विगलितसमृदिंध विरलभूषणां कुमारीमपश्यत्। तस्या अतुलितरूपसम्पदाभिभूतः शक्तिकुमारोऽचिन्तयत्सेयमाकृतिर्न शीलविरोधि नी। आसज्जति मे हृदयमस्यामेव। तदेनां परीक्ष्योद्वहामि। स्नेहपूर्णदृष्टिः स आहअस्ति ते कौशलं शालिप्रस्थेनानेन सम्पन्नमाहारम् अस्मान् भोजयितुम्?’
          ततस्तया वृद्धदासी साभिप्रायमालोकिता। तस्य हस्तात् प्रस्थमात्रं धान्यमादाय स्वगृहस्य चत्वरे तं प्रक्षालितपादम् उपावेशयत्। ततस्तान् सुरभीन् शालीनातपे किञ्चिद् विशोष्य मुहुर्मुहुः परिवर्त्य समायां भूमौ अघ’यत्। तुषेभ्यस्तण्डुलान्पृथक्  कृत्वा धात्रीमुक्तवती’मातः! इमान् भूषणमार्जनसमर्थान् तुषान् स्वर्णकारेभ्यो देहि। तेभ्योलब्धाभिः काकिणीभिः काष्ठानि स्थालीं शरावद्वयं चाहरततः सा तान् तण्डुलान् उलूखले मुसलेनावहत्य शूर्पेण शोधयित्वाऽसकृद् जलेन प्रक्षाल्य क्वथितजले प्राक्षिपत्। सिद्धेषु च तण्डुलेषु मण्डनिःसारणाय स्थालीमधोमुखीं कृतवती। इन्धनानि पुनरम्भसा शमयित्वा कृष्णाङ्गारानपि तदर्थिभ्यः प्रेषितवती। विक्रीतैरङ्गारैर्यत् मूल्यं लब्धं तेन शाकं घृतं दधि तैलं चिञ्चाफलं च क्रीतम्। ततो व्यञ्जनादिकं च तया सम्पादितम्।
          अथ सा कन्या धात्रीमुखेनातिथिं स्नानाय प्रेरितवती। स्नानशुद्धायातिथये तैलमामलकं चायच्छत्। फलकमारुह्य प्राङ्गणकदलीदलं लवित्वा तत्रासनं भोजनाधारं च कृतवती। पेयोपहारपूर्वं भोजनं घृतसहितोदनं व्यञ्जनं च तस्मै दत्तवती।
मध्ये मध्ये च विविधभोज्यादि प्रकारान् वर्णयित्वा रुचिमपि वर्धितवती। अन्ततः शिशिरवारिणा पेयमाचमनं च प्रदत्तवती। भुक्ते तु तस्मिन् तयास्य शयनव्यवस्थापि कृता।
          एवं कन्यागुणसम्पदा समाकृष्टः शक्तिकुमारस्तां विधिवदुपयम्य नीतवान्।
अतएवोक्तम् ‘किं गृहिणः प्रियहिताय? दारगुणाः।


शब्दार्थाः
1.     अनेककोटिसारः अनेककोटिः सारः (धनम्) यस्य जिसके पास अनेक करोड़ धन हो
2.     विन्देयम् प्राप्तव्यम् प्राप्त करना चाहिए
3.     कलत्रम् पत्नी पत्नी
4.     शालिः कलमः/तण्डुलविशेषः धान (चावल)
5.     प्रस्थः द्वातिंरशत् पलात्मकः मापः एक विशिष्ट माप (32 पलों के बराबर)
6.     गुणवदन्नम् स्वादिष्टम् अन्नम् स्वादिष्ट और पौष्टिक आहार
7.     हसितावधूतः हसितेन अवधूतः/उपहासेन तिरस्कृतः उपहास द्वारा तिरस्कृत
8.     तीरम् तटम् तट
9.     पत्तनम् नगरम् नगर, कस्बा
10. विगलितसमृद्धिम् विगलिता समृद्धिः यस्याः ताम् निर्धन
11. आसज्जति आकृष्टो भवति आकृष्ट हो रहा है
12. परीक्ष्य परीक्षां कृत्वा परीक्षा करके
13. उद्वहामि विवाहं करोमि विवाह करता हूँ
14. साभिप्रायम् अभिप्रायेण सहितम् अभिप्रायपूर्वक
15. चत्वरे प्रांगणे आँगन में
16. प्रक्षालितपादम् प्रक्षालितौ पादौ यस्य तम् धुले हुए पैर वाले का
17. उपावेशयत् — — — बैठाया
18. सुरभीन् सुरभिसहितान् सुगन्धित
19. आतपे घर्मे धूप में
20. विशोष्य शुष्कीकृत्य सुखाकर
21. मुहुर्मुहुः वारम्वारम् बारबार
22. परिवर्त्य परिवर्तनं विधाय उलटपुलट कर
23. समायाम् भूमौ समतलभूमौ समतल भूमि पर
24. अघ’यत् घ’नम् अकरोत् कूटा
25. तुषेभ्यः शालित्वग्भिः धान की भूसी से
26. काकिणीभिः पणकैः पैसों से, कौड़ी से
27. स्थालीम् पात्रविशेषम् थाली
28. शरावद्वयम् कंसद्वयम्/वर्धमानकद्वयम् दो प्याले, दो कटोरे
29. आहर आनय लाओ
30. उलूखले लोकभाषायाम् ओखल इति प्रसिद्धे पात्रे ओखली में
31. मुसलेन कु’नयन्त्रविशेषेण मूसल से
32. शोधयित्वा स्वच्छीकृत्य साफ करके
33. असकृत् वारम्वारम् बारबार
34. प्रक्षाल्य निर्मलीकृत्य साफ करके
35. क्वथितजले उष्णजले गरम जल में
36. अम्भसा जलेन जल से
37. शमयित्वा शान्तं कृत्वा, निर्वापयित्वा ठंढा करके
38. कृष्णाङ्गारान् अदग्धकाष्ठान् कोयलों को
39. चिञ्चाफलम् तिन्तिणी इमली
40. व्यञ्जनादिकम् शाकादिकम् सब्जी आदि
41. आमलकम् आमलकेन निर्मितम् आँवले का
42. फलकम् काष्ठासनम् चौकी पीढ़ा
43. आरुह्य अधिरुह्य चढ़कर
44. लवित्वा कर्त्तयित्वा काटकर
45. भोजनाधारम् भोजनस्य आधारम् भोजन का आधार
46. पेयोपहारपूर्वम् पेयोपहारपूर्वकम् भोजन से पहले पीने वाला पेय पदार्थ के साथ
47. घृतसहितोदनम् घृतयुक्तम् ओदनम् घृतयुक्त भात
48. शिशिरवारिणा शीतलेन जलेन शीतल जल से
49. उपयम्य परिणीय विवाह करके
50. गृहिणः गृहस्थस्य गृहस्थ का
51. दारगुणाः स्त्रीगुणाः स्त्रियों के गुण
(दारापत्नी)


अभ्यासः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) शक्तिकुमारः कस्यां चिन्तायाम् आपन्नः आसीत्?
(ख) कावेरीतीरपत्तने स्थिता कुमारी कीदृशी आसीत्?
(ग) कुमारीं विलोक्य शक्तिकुमारः किम् अचिन्तयत्?
(घ) अङ्गारम् विक्रीय तया कुमार्या किं क्रीतम्?
(ङ) कुमारी अतिथये भोजनार्थं किं दत्तवती?
(च) इयं कथा कस्मात् ग्रन्थात् उद्धृता कश्च अस्याः प्रणेता?
2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) इमान् तुषान् स्वर्णकारेभ्यो देहि।
(ख) तया वृद्धदासी साभिप्रायम् आलोकिता।
(ग) तान् तण्डुलान् क्वथितजले प्राक्षिपत्।
(घ) सा कन्या अतिथिं स्नानाय प्रेरितवती।
3. ‘कस्तम्भे दत्तानां पदानां समानार्थकं पदं ‘खस्तम्भे दत्तम्। तौ यथोचितं योजयत
‘क‘ख
(क) कलत्रम् वारम्वारम्
(ख) पत्तनम् तिन्तिणी
(ग) अम्भसा पत्नी
(घ) मुहुर्मुहुः जलेन
(ङ) चिञ्चाफलम् नगरम्
4. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत
(क) सः विगलितसमृद्धिं विरलभूषणां .................. अपश्यत्। (कुमारीम्/कुमारम्)
(ख) अस्ति द्रविडेषु .................. नाम नगरी। (कञ्चनपुरं/काञ्ची)
(ग) इन्धनानि अम्भसा .................. कृष्णाङ्गारानपि प्रेषितवती। (शमयित्वा/प्रज्वाल्य)
(घ) सा कन्या धात्रीमुखेनातिथिं .................. प्रेरितवती। (स्नानाय/शयनाय)
(ङ) शिशिरवारिणा पेयमाचमनं च ..................। (कृतवती/दत्तवती)
5. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि लिखत
यथाप्र + विश् + ल्यप् = प्रविश्य
(क) वि + शुष् + ल्यप् = .............
(ख) परि + वृत् + ल्यप् = .............
(ग) उप + यम् + ल्यप् = .............
(घ) प्र + क्षाल् + ल्यप् = .............
(ङ) पा + ण्यत् = .............
(च) कृ + ण्यत् = .............
6. रेखाङिक्तानि सर्वनामपदानि कस्य कृते प्रयुक्तानि तानि लिखत
(क) सः अष्टादशवर्षदेशीयः चिन्तामापन्नः।
(ख) तस्याः अतुलितरूपसम्पदाभिभूतः शक्तिकुमारः अचिन्तयत्।
(ग) आसज्जति मे हृदयम् अस्याम् एव।
(घ) तया अस्य शयनस्य व्यवस्थापि कृता।
7. (क) सन्धिं कुरुत
1.     न + अस्ति + अदाराणाम् = .................
2.     गुणवत् + अन्नम् = .................
3.     सा + इयम् = .................
4.     परीक्ष्य + उद्वहामि = .................
5.     पुनः + अम्भसा = .................
(ख) निम्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरुत
प्रक्षाल्य, अम्भसा, पत्तने, मुहुर्मुहुः, चत्वरे
परियोजनाकार्यम्
शक्तिकुमारः परिणयाय स्त्रियां यत्कौशलम् अपेक्षते स्म तत् वर्तमानदेशकालदृष्ट्या समीचीनम्
अस्ति न वा इति स्वविचारं स्वभाषया प्रकाशयत।


योग्यताविस्तारः
1. ण्यत् प्रत्यय ‘योग्यअर्थ में ण्यत् प्रत्यय का प्रयोग किया जाता है।
पीने योग्य पेयम् (पा + ण्यत्)
करने योग्य कार्यम् (कृ + ण्यत्)
चुराने योग्य चौर्यम् (चुर् + ण्यत्)
हरने योग्य हार्यम् (हृ + ण्यत्)
2. अम्भस् (पानी) नपुंसकलिङ्ग
विभिक्तः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा अम्भः अम्भसी अम्भांसि
द्वितीया अम्भः अम्भसी अम्भांसि
तृतीया अम्भसा अम्भोभ्याम् अम्भोभिः
चतुर्थी अम्भसे अम्भोभ्याम् अम्भोभ्यः
पंचमी अम्भसः अम्भोभ्याम् अम्भोभ्यः
षष्ठी अम्भसः अम्भसोः अम्भसाम्
सप्तमी अम्भसि अम्भसोः अम्भस्सु
पयस् नभस् आदि शब्दों के रूप अम्भस् के समान ही चलते हैं।
3. साभिप्रायमालोकिताअभिप्राय के साथ देखी गयी। सामान्य रूप से देखने तथा अभिप्रायपूर्वक
देखने में अन्तर होता है। यहाँ कुमारी ने दासी को अभिप्राय के साथ देखा है ताकि दासी
उनके अभिप्राय को समझ ले। दासी ने कुमारी की उस दृष्टि के अभिप्राय को भलीभाँति
समझ लिया है। यहाँ कुमारी का दासी को देखने का अभिप्राय था कि वणिव्Qपुत्र को यह
उत्तर देना कि मुझमें इस कार्य को करने का कौशल है अर्थात् मैं यह काम कर सकती हूँ
इसलिए तुम इनके हाथ से धान की पोटली ले लो।
4. सेयमाकृतिर्न शीलविरोधिनीयह आकृति शीलविरोधिनी नहीं है। अर्थात् यह शीलवती
बालिका है, इसके चेहरे तथा भावभंगिमा को देखकर इसकी सच्चरित्रता का आभास हो
जाता है फिर भी केवल मन की आवाज पर आँखें मूँद कर विश्वास करना ठीक नहीं।
5. लवित्वा लूम् छेदने + क्त्वा (सेट्) गुण अवादेशः।

Comments

Post a Comment

Popular Posts