Chapter – 7 सप्तमः पाठः भूकम्पविभीषिका Saptam Paatha: Bhukampavibhishika NCERT Shemushi Class X (Subject Code-122)


सप्तमः पाठः
भूकम्पविभीषिका
          हमारे वातावरण में भौतिक सुख साधनों के साथसाथ अनेकों आपदाएँ भी लगी रहती हैं। प्राकृतिक पदाएँ जीवन को अस्तव्यस्त कर देती हैं। कभी किसी महामारी की आपदा, बाढ़ तथा सूखे की आपदा या तूफान के रूप में भयटर प्रलय- ये सब हम अपने जीवन में देखते तथा सुनते रहते हैं। भूकम्प भी ऐसी   आपदा है । जिसके बारे में यहाँ दृष्टिपात किया गया है। इस पाठ के माध्यम से यह बताया गया है कि किसी भी आपदा में बिना किसी घबराहट के, हिम्मत के साथ किस प्रकार हम अपनी सुरक्षा स्वयं कर सकते हैं।
एकोत्तर द्विसहस्रीष्टाब्दे (2001 ईस्वीये वर्षे) गणतन्त्रदिवसपर्वणि यदा समग्रमपि भारत राष्ट्रं नृत्यगीतवादित्राणाम् उल्लासे मग्नमासीत् तदाकस्मादेव गुर्जरराज्यं पर्याकुलं, विपर्यस्तम्, क्रन्दनविकलं, विपन्नञ्च जातम्। भूकम्पस्य दारुणविभीषिका समस्तमपि गुर्जरक्षेत्रं विशेषेण च कच्छजनपदं ध्वंसावशेषु परिवर्तितवती। भूकम्पस्य केन्द्रभूतं भुजनगरं तु मृत्तिकाक्रीडनकमिव खण्डखण्डम् जातम्। बहुभूमिकानि भवनानि क्षणेनैव धराशायीनि जातानि। उत्खाता  घुद्दीपस्तम्भाः। विशीर्णाः गृहसोपानमार्गाः। फालद्वये विभक्ता भूमिः। भूमिगर्भादुपरि निस्सरन्तीभिः दुर्वार जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्। सहस्रमिताः प्राणिनस्तु क्षणेनैव मृताः। ध्वस्तभवनेषु सम्पीडिता सहस्रशोऽन्ये सहायतार्थं करुणकरुणं क्रन्दन्ति स्म। हा दैव! क्षुत्क्षामकण्ठाः मृतप्रायाः केचन शिशवस्तु ईश्वरकृपया एव द्वित्राणि दिनानि जीवनं धारितवन्तः।
इयमासीत् भौरवविभीषिका कच्छ भूकम्पस्य। पञ्चोत्तर द्विसहस्रीष्टाब्दे (2005 ईस्वीये वर्षे) अपि कश्मीर प्रान्ते पाकिस्तान देशे च धरायाः महत्कम्पनं जातम्। यस्मात्कारणात् लक्षपरिमिताः जनाः अकालकालकवलिताः। पृथ्वी कस्मात्प्रकम्पते वैज्ञानिकाः इति विषये कथयन्ति यत् पृथिव्या अन्तर्गर्भे विघमानाः बृहत्यः पाषाण शिला यदा संघर्षणवशात् त्रुट्यन्ति तदा जायते भीषणं संस्खलनम्, संस्खलनजन्यं कम्पनञ्च। तदैव भयावहकम्पनं धराया उपरितलमप्यागत्य महाकम्पनं जनयति येन महाविनाशदृश्यं समुत्पघते।
ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायत इति कथयन्ति भूकम्पविशेषज्ञाः। पृथिव्याः गर्भे विघमानोऽग्निर्यदा खनिजमृत्तिकाशिलादिसञ्चयं क्वथयति तदा तत्सर्वमेव लावारसताम् उपेत्य दुर्वारगत्या धरां पर्वतं वा विदार्य  बहिर्निष्क्रामति। धूमभस्मावृतं जायते तदा गगनम्। सेल्सियशतापमात्राया अष्टशताङक्तामुपगतोऽयं लावारसो यदा नदीवेगेन प्रवहति तदा पार्श्वस्थग्रामा नगराणि वा तदुदरे क्षणेनैव समाविशन्ति।
निहन्यन्ते च विवशाः प्राणिनः। ज्वालामुद्गिरन्त एते पर्वता अपि भीषणं भूकम्पं जनयन्ति।
यघपि दैवः प्रकोपो भूकम्पो नाम, तस्योपशमनस्य न कोऽपि स्थिरोपायो दृश्यते। प्रकृति समक्षमघापि विज्ञानगर्वितो मानवः वामनकल्प एव तथापि भूकम्परहस्यज्ञाः कथयन्ति यत् बहुभूमिकभवननिर्माणं न करणीयम्। तटबन्धं निर्माय बृहन्मात्रं नदीजलमपि नैकस्मिन् स्थले पुञ्जीकरणीयम् अन्यथा असन्तुलनवशाद् भूकम्पस्सम्भवति। वस्तुतः शान्तानि एव पञ्चतत्त्वानि क्षितिजलपावकसमीरगगनानि भूतलस्य योगक्षेमाभ्यां कल्पन्ते। अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।


शब्दार्थाः
1.           पर्याकुलम् - परितःव्याकुलम् - चारों ओर से बेचैन
2.           विपर्यस्तम् - अस्तव्यस्तम् - अस्तव्यस्त
3.           विपन्नम् - विपत्तियुक्तम् - (विपत्तिग्रस्त) मुसीबत में
4.           दारुणविभीषिका - भयटरत्रासः - भययुक्त
5.           ध्वंसावशेषु - नाशोपरान्तम् अवशिष्टेषु - विनाश के बाद बची हुई वस्तु
6.           मृत्तिकाक्रीडनकमिव - मृत्तिकायाः क्रीडनकम् इव - मिट्टी के खिलौने के समान
7.           बहुभूमिकानि भवनानि - बहव्यः भूमिकाः येषु तानि भवनानि - बहुमंजिले मकान
8.           उत्खाताः - उत्पाटिताः - उखड़ गये
9.           विशीर्णाः - नष्टाः - बिखर गये
10.       फालद्वये - खण्डद्वये - दो खण्डों में
11.       निस्सरन्तीभिः - निर्गच्छन्तीभिः - निकलती हुई
12.       दुर्वार - दुःखेन निवारयितुं योग्यम् - जिनको हटाना कठिन है
13.       महाप्लावनम् - महत् प्लावनम् - विशाल बाढ़
14.       क्षुत्क्षामकण्ठः - क्षुधा क्षामः कण्ठाः येषाम् ते - भूख से दुर्बल कण्ठ वाले
15.       कालकवलिताः - दिवंगताः - मृत्यु को प्राप्त हुए
16.       संघर्षणवशात् संस्खलनम् - विचलनम् - स्थान से हटना
17.       जनयति - उत्पञं करोति - उत्पन्न करती है
18.       भूकम्पविशेषज्ञाः - भुवः कम्पनरहस्यस्य ज्ञातारः - भूमि के कम्पन्न के रहस्य को जानने वाले
19.       खनिज - उत्खननात् प्राप्तं द्रव्यम् - भूमि को खोदने से प्राप्त वस्तु
20.       क्वथयति - उत्तप्तं करोति - उबालती है, तपाती है
21.       विदार्य - विदीर्णं कृत्वा, भित्वा - फाड़कर
22.       पार्श्वस्थग्रामाः - निकटस्थ ग्रामाः - समीप के गाँव
23.       उदरे - कुक्षौ - पेट में
24.       समाविशन्ति अन्तः गच्छन्ति - समा जाती हैं
25.       उद्गिरन्तः - प्रकटयन्तः - प्रकट करते हुए
26.       उपशमनस्य - शान्तेः - शान्त करने का
27.       वामनकल्प - वामनसदृशः - बौना
28.       निर्माय - निर्माणं कृत्वा - बनाकर
29.       पुञ्जीकरणीयम् - संग्रहणीयम् इकट्ठा करना चाहिए
30.       योगक्षेमाभ्याम् - अप्राप्तस्य प्राप्तिः योगः प्राप्तस्य रक्षणं क्षेमः ताभ्याम् - अप्राप्त की प्राप्ति योग है, प्राप्त की रक्षा क्षेम है



अभ्यासः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) समस्तराष्ट्रं कीदृक्र उल्लासे मग्नम् आसीत्?
(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?
(ग) पृथिव्याः स्खलनात् किं जायते?
(घ) समग्रो विश्वः कैः आतंकितः दृश्यते?
(ङ) केषां विस्फोटैरपि भूकम्पो जायते?
(च) कीदृशानि भवनानि धराशायीनि जायन्ते?
2. सन्धिं/सन्धिविच्छेदं च कुरुत
(अ) परसवर्णसन्धिनियमानुसारम्
(क) किञ्च = ................ + च
(ख) ................ = नगरम् + तु
(ग) विपन्नञ्च = ................ + ................
(घ) .................. = किम् + नु
(ङ) भुजनगरन्तु = ................ + ................
(च) ................ = सम् + चयः
(आ) विसर्गसन्धिनियमानुसारम्
(क) शिशवस्तु = ................ + ................
(ख) ................ = विस्फोटैः + अपि
(ग) सहस्रशोऽन्ये = ................ + अन्ये
(घ) विचित्रोऽयम् = विचित्रः + ................
(ङ) ................ = भूकम्पः + जायते
(च) वामनकल्प एव = ................ + ................
3. (अ) ‘कस्तभ्भे पदानि दत्तानि ‘खस्तम्भे विलोमपदानि, तयोः संयोगं कुरुत
                
सम्पन्नम्         प्रविशन्तीभिः
ध्वस्तभवनेषु    सुचिरेणौव
निस्सरन्तीभिः   विपन्नम्
निर्माय           नवनिर्मित भवनेषु
क्षणेनैव          विनाश्य
(आ) ‘कस्तम्भे पदानि दत्तानि ‘खस्तम्भे समानार्थकपदानि तयोः संयोगं कुरुत
               
पर्याकुलम्       नष्टाः
विशीर्णाः        क्रोधयुक्ताम्
उद्गिरन्तः         संत्रोट्य
विदार्य           व्याकुलम्
प्रकुपिताम् प्र    कटयन्तः
4. (अ) उदाहरणमनुसृत्य प्रकृतिप्रत्यययोः विभागं कुरुत
यथापरिवर्तितवती परि + वृत् + क्तवतु + ङीप् (स्त्री)
धृतवान् — ................. + .................
हसन् — ................. + .................
विशीर्णा वि + शस्र + क्त + ...............
प्रचलन्ती — ................. + ................. + शतृ + ङीप् (स्त्री)
हतः — ................. + .................
(आ) पाठात् विचित्य समस्तपदानि लिखत
महत् च तत् कम्पनं = ..................................
दारुणा च सा विभीषिका = ..................................
ध्वस्तेषु च तेषु भवनेषु = ..................................
प्राक्तने च तस्मिन् युगे = ..................................
महत् च तत् राष्ट्रं तस्मिन् = ..................................
5. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
(घ) एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।
(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति।
6. ‘भूकम्पविषयेपञ्चवाक्यमितम् अनुच्छेदं लिखत।
7. कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत
(क) समग्रं भारतं उल्लासे मग्नः ................... (अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं ................... (कृ + क्तवतु + ङीप्)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः ................... (भू + लङ्, प्रथम पुरुष बहुवचन)
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ................... (भू + लट्, प्रथम पुरुष बहुवचन)
(ङ) मानवाः ................... यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्,प्रथम पुरुष बहुवचन)
(च) नदीवेगेन ग्रामाः तदुदरे ................... (सम् + आ + विश् + विधिलिङ्, प्रथम पुरुष एक वचन)
 योग्यताविस्तारः
भूकम्प परिचय - भूमि का कम्पन भूकम्प कहलाता है। वह बिन्दु भूकम्प का उद्गम केन्द्र कहा जाता है, जिस बिन्दु पर कम्पन की उत्पत्ति होती है। कम्पन तरंग के रूप में विविध दिशाओं में आगे चलता है। ये तरंगें सभी दिशाओं में उसी प्रकार फैलती हैं जैसे किसी शान्त तालाब में पत्थर के टुकड़ें को फेंकने से तरंगें उत्पन्न होती हैं। धरातल पर कुछ स्थान ऐसे हैं जहाँ भूकम्प प्रायः आते ही रहते हैं। उदाहरण के अनुसारप्रशान्त महासागर के चारों  ओर के प्रदेश, हिमाचल प्रदेश, गग, ब्रह्मपुत्र का तटीय भाग इन क्षेत्रों में अनेक भूकम्प आए जिनमें से कुछ तो अत्यधिक भयावह और विनाशकारी थे। सुनामी भी एक प्रकार का भूकम्पन ही है जिसमें भूमि के भीतर अत्यन्त गहराई से तीव्र कम्पन उत्पन्न होता है। यही कम्पन समुद्र के जल को काफी ऊँचाई तक तीव्रता प्रदान करता है। फलस्वरूप तटीय क्षेत्र सर्वाधिक प्रभावित होते हैं। सुनामी का भीषण प्रकोप 20 सितम्बर 2004 को हुआ। जिसकी चपेट में भारतीय प्रायद्वीप सहित अनेक देश आ गये। क्षिति, जल, पावक, गगन और समीर इन पञ्चतत्वों में सन्तुलन बनाए रखकर प्राकृतिक आपदाओं से बचा जा सकता है। इसके विपरीत असन्तुलित पञ्चतत्वों से सृष्टि विनष्ट हो सकती है?
भूकम्पविषये प्राचीनमतम्
प्राचीनैः ऋषिभिः अपि स्वस्वग्रन्थेषु भूकम्पोल्लेखः कृतः येन स्पष्टं भवति यत् भूकम्पाः प्राचीनकालेऽपि आयान्ति स्म।
यथा
वराहसंहितायाम्
क्षितिकम्पमाहुरेके मह्यन्तर्जलनिवासिसत्त्वकृतम्
भूभारखिन्नदिग्गजनिःश्वास समुद्भवं चान्ये।
अनिलोऽनिलेन निहितः क्षितौ पतन् सस्वनं करोत्यन्ये
केचित् त्वदृष्टकारितमिदमन्ये प्राहुराचार्याः।।
मयूरचित्रे
कदाचित् भूकम्पः श्रेयसेऽपि कल्पते। एतादृशाः अपि उल्लेखाः अस्माकं साहित्ये समुपलभ्यन्ते
यथा वारुणमण्डलमौशनसे
प्रतीच्यां यदि कम्पेत वारुणे सप्तके गणे,
द्वितीययामे रात्रौ तु तृतीये वारुणं स्मृतम् ।
अत्र वृष्टिश्च महती शस्यवृद्धिस्तथ्व च,
प्रज्ञा धर्मरताश्चैव भयरोगविवर्जिताः ।।
उल्काभूकम्पदिग्दाहसम्भवः शस्यवृद्धये ।
क्षेमारोग्यसुभिक्षायै वृष्टये च सुखाय च ।
भूकम्पसमा एव अग्निकम्पः, वायुकम्पः, अम्बुकम्पः इत्येवमऽन्येऽपि भवन्ति।

Comments

Popular Posts