Chapter – 8 अष्टमः पाठः प्रश्नत्रयम् Ashtam Paatha: Prashntrayam NCERT Shemushi Class X (Subject Code-122)


अष्टमः पाठः
प्रश्नत्रयम्
          प्रस्तुत कथा रूसी कथाकार लियो टाल्स्टाय की प्रसिद्ध कहानी के अंग्रेजी अनुवाद का संक्षिप्त रूप में  नराख्यान है। यहाँ सेवा तथा परोपकार पर बल देते हुए कहा गया है कि इसके द्वारा कठोर से भी कठोर मनुष्य का हृदयपरिवर्तित हो सकता है जिसकी वर्तमान समय में मानव समाज के लिए महती आवश्यकता है।
कश्चिद् राजा स्वमनसि निरन्तरं प्रवर्तमानायाजिज्ञासायाः समाधानाय कस्मिँश्चिदाश्रमे निवसतो मुनेः पार्श्वमुपागच्छत्। तदानीं मुनिः स्वकार्यसंलग्न एव राजानं यथेष्टमभ्यनन्दत्। राजा तं मुनिं प्रश्नत्रयमपृच्छत्कः समयः श्रेष्ठः? कः पुरुषः श्रेष्ठः? किं कर्म च श्रेष्ठम्? इति। मुनिस्तु राजानं प्रति न ध्यात्वा स्वकार्यमेवाकरोत्।
तत्राश्रमे राज्ञो निवासादिव्यवस्थामपि निर्धार्य मुनिर्न किमप्यवोचत् प्रत्युत स्वकीयानि कार्याणि यथापूर्वमाचरत्। राजा पुनः पुनः तानेव प्रश्नानुपस्थाप्य मुनेरुत्तरं प्रतीक्षितवान्। किन्तु मुनिर्न किमपि वक्तुमुत्सुकः। स च निरन्तरमाश्रमस्य कर्षणं, मार्जनं, सेचनं,तथान्यानि कार्याणि कर्तुं व्यापृतः। राजा निराशो भूत्वा प्रत्यावर्तनस्य विचारं चकार।
अथापरेघुः राज्ञो राजधानीं प्रति प्रस्थानोत्सुकस्य पुरतः कश्चित् शस्त्राहतः श्रमक्लान्तः पुरुषः आश्रममागतः। तस्य कष्टं विलोक्य दयार्द्रो मुनिर्यथासाध्यं तस्योपचारे प्रवृत्तः।राजापि तादृशस्य आतुरस्य दशया विकल इव मुनेस्तस्मिन् कार्ये तदादेशेन सहायतां चकार। कतिपयैरेव दिवसैरागन्तुको मुनेः राज्ञश्चोपचारेण स्वस्थो जातः।
स च राजानमुवाच- मया केनापि कारणेन क्रोधाविष्टेन राजैव हन्तव्य आसीत् किन्तु मद्विचारस्य प्रकाशनाद् राजपुरुषाः मां भृशमताडयन् बन्दीकृतवन्तश्च। यथाकथमपि अत्र निरापदमाश्रममागतोऽस्मि पलायमानो बन्धनात्। अधुना भवतो व्यवहारेण कोपो मे गलितः। क्षन्तव्योऽयं वराको जनः। आज्ञापयतु महाराजः।
अथ राजानं मुनिरुवाच—“मन्ये भवदीयस्य प्रश्नत्रयस्य समाधानमस्य जनस्य परिवर्तितमानसस्य सेवयैव जातम्। मुनिः पुनरपि विशदीकुर्वन्नकथयत्अयमेव श्रेष्ठः समयः यत्र मानवः परोपकारे कस्मिन्नपि कर्मणि वा व्यापृतः। समक्षं वर्तमानः पुरुष एव श्रेष्ठः कस्यापि सहायतां कामयमानः। सेवैव श्रेष्ठं कर्म येन हृदयपरिवर्तनमपि जायते।राजा मुनेरुत्तरप्रदानपद्धत्या प्रमुदितः भूत्वा स्वनगरं गतः।


शब्दार्थाः
1.           प्रवर्तमानायाः - चलायमानाः - चलती हुई का
2.           उपागच्छत् - समीपं गतवान् - निकट गया
3.           यथेष्टम् - इच्छानुसारम् - स्वेच्छा से
4.           अभ्यनन्दन् - अभिनन्दनं कृतवान् - स्वागत किया
5.           प्रतीक्षितवान् - प्रतीक्षाम् अकरोत् - प्रतीक्षा की
6.           निर्धार्य - निश्चितं कृत्वा - निश्चित करके
7.           प्रत्यावर्तनस्य - प्रति+आवर्तनस्य - लौटने का
8.           अपरेघुः - अपरस्मिन् दिने - अगले दिन
9.           पुरतः - समक्षम् - सामने
10.       विलोक्य - दृष्ट्वा - देखकर
11.       यथासाध्यम् - यथासंभवम् - जितना संभव था
12.       भृशम् - अत्यधिकम् - अत्यधिक
13.       निरापदम् - आपद्विहीनम् - विपत्ति रहित
14.       गलितः - समाप्तः - नष्ट हो गया
15.       वराको - विवशः - बेचारा
16.       विशदीकुर्वन् - विस्तारं कुर्वन् - विस्तार करते हुए
17.       क्षन्तव्यः - क्षमा योग्यः - क्षमा करने योग्य
18.       प्रवृत्तः - संलग्नः - लगा हुआ
19.       प्रमुदितः - प्रकर्षेण मुदितः - अतीव प्रसन्न
20.       व्यापृतः - कर्मणि निरतः - काम में लगा हुआ
21.       चकार - अकरोत् - किया


अभ्यासः
1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत-
(क) राजा किमर्थं मुनेः पार्श्वमुपागच्छत्?
(ख) राजा मुनिं कान् प्रश्नान् अपृच्छत्?
(ग) अपरेघुः कीदृशः पुरुषः आश्रममागतः?
(घ) पुरुषः कथं स्वस्थः जातः?
(ङ) श्रेष्ठः समयः कः?
(च) श्रेष्ठं कर्म किम्?
2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) राजा मुनिं प्रश्नत्रयमपृच्छत्।
(ख) मुनिः स्वकार्यसंलग्न एव राजानम् अभ्यनन्दत्।
(ग) राजा जिज्ञासायाः समाधानाय मुनेः पार्श्वमगच्छत्।
(घ) राजा प्रश्नान् उपस्थाप्य मुनेः उत्तरं प्रतीक्षितवान्।
(ङ) राजा शस्त्राहतस्य सहायताम् अकरोत्।
3. ‘कस्तम्भे दत्तानां विशेषणपदानां ‘खस्तम्भे दत्तौः विशेष्यैः सह संयोजनं कुरुत-
(क) (ख) उत्तराणि
प्रवर्तमानायाः मुनिः ..............
शस्त्राहतः आश्रमम् ..............
दयार्द्रः जिज्ञासायाः ..............
वराकः दिवसैः ..............
कतिपयैः पुरुषः ..............
निरापदम् जनः ..............
स्वकीयानि कर्म ..............
श्रेष्ठम् कार्याणि ..............
4. पाठात् समस्तपदं चित्वा विग्रहवाक्यसमक्षं लिखत-
(क) पूर्वम् अनतिक्रम्य — ............................
(ख) शस्त्रेण आहतः — ............................
(ग) राज्ञः पुरुषः — ............................
(घ) महान् चासौ राजा — ............................
(ङ) श्रमेण क्लान्तः — ............................
(च) आपदानाम् अभावः — ............................
5. पाठात् चित्वा अव्ययपदैः रिक्तस्थानपूर्तिं कुरुत-
(क) .............. भवतो व्यवहारेण कोपो मे गलितः।
(ख) राजा आश्रमे मुनेः .............. आगच्छत्।
(ग) मुनिः .............. आश्रमे राज्ञो निवासादिव्यवस्थामपि अकरोत्।
(घ) राजा .............. तानेव पश्चात् उपस्थापितवान्।
6. अधोलिखितानि सर्वनामपदानि कस्मै प्रयुक्तानि इति वाक्यसमक्षे लिखत-
(क) राजा तं प्रश्नत्रयमपृच्छत्।
(ख) तस्य कष्टं विलोक्य मुनिः तस्योपचारे प्रवृत्तः।
(ग) स निराशो भूत्वा प्रत्यावर्तनस्य विचारमकरोत्।
(घ) स स्वकार्यसंलग्न एव राजानंयथेष्टमभ्यनन्दत्।
7. सन्धिविच्छेदं कुरुत-
(क) यथेष्टम् — .................. + ..................
(ख) प्रत्यावर्तनम् — .................. + ..................
(ग) तथान्यानि — .................. + ..................
(घ) कश्चित् — .................. + ..................
(ङ) सेवयैव — .................. + ..................
(च) तस्योपचारे — .................. + ..................
परियोजनाकार्यम्
‘सेवापरमोधर्मःइति भावं वर्णयन् कामपि सत्यघटनां कथां वा लिखत
योग्यताविस्तारः
भाषिक विस्तारः-
प्रवर्तमानायाः प्र + वृत् + शानच् (स्त्री.) षष्ठी वि. एकवचनम्
उपागच्छत् उप + आ + गम् लङ् लकार प्र. पु. एकवचनम्
अभ्यनन्दत् अभि + नन्द् + लङ् लकार प्र. पु. एकवचनम्
प्रतीक्षितवान् प्रति + ईक्ष् + क्तवतु प्र. पु. एकवचनम्
निर्धार्य निर् + धृ (धारणे) ल्यप् प्रत्यय
अवोचत् वच् + लुग् लकार प्र. पु. एकवचनम्
प्रत्यावर्तनस्य प्रति + आ + वृत् + ल्युट् प्रत्यय षष्ठी वि. एकवचनम्
अपरेघुः — (अव्यय शब्द) अपर + एघुस्
व्यापृतः वि + आपृ + क्त
कतिपय — (विशेषणपदम्) कुछ, कति + अयच्, पुक्
कतिपय शब्द के रूप अकारान्त पं. ‘नरशब्द के समान होंगे। इस शब्द का प्रयोग केवल बहुवचन
में होता है।
चकार कृ लिट् लकार प्रथम पु. एकवचनम्
‘कृधातु के लिट् लकार का रूप
‘परोक्षे लिट्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकार चक्रतुः चक्रू :
मध्यमपुरुषः चकर्थ चक्रथुः चक्र
उत्तमपुरुषः चकार, चकर चकृव चकृम
लकार
छात्र पाँच लकारों का प्रयोग जानते हैं। किन्तु संस्कृत भाषा में दस लकार होते हैं। दसों लकारों के
ज्ञान के लिए ‘गम्धातु का उदहारण देखें
गम् धातु लट्लकारः (वर्तमानकाल)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गच्छति गच्छतः गच्छन्ति
मध्यमपुरुषः गच्छसि गच्छथः गच्छथ
उत्तमपुरुषः गच्छामि गच्छावः गच्छामः
गम् धातु लङ्लकारः (अनघतनभूत)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगच्छत् अगच्छताम् अगच्छन्
मध्यमपुरुषः अगच्छः अगच्छतम् अगच्छत
उत्तमपुरुषः अगच्छम् अगच्छाव अगच्छाम
गम् धातु लृट्लकारः (सामान्य भविष्य)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गमिष्यति गमिष्यतः गमिष्यन्ति
मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
उत्तमपुरुषः गमिष्यामि गमिष्यावः गमिष्यामः
गम् धातु लोट्लकारः (आज्ञा)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गच्छतु गच्छताम् गच्छन्तु
मध्यमपुरुषः गच्छ गच्छतम् गच्छत
उत्तमपुरुषः गच्छानि गच्छाव गच्छाम
गम् धातु विधिलिङ्लकारः
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गच्छेत् गच्छेताम् गच्छेयुः
मध्यमपुरुषः गच्छेः गच्छेतम् गच्छेत
उत्तमपुरुषः गच्छेयम् गच्छेव गच्छेम
गम् धातु (आशीर्लिङ्ग)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गम्यात् गम्यास्ताम् गम्यासुः
मध्यमपुरुषः गम्याः गम्यास्तम् गम्यास्त
उत्तमपुरुषः गम्यासम् गम्यास्व गम्यास्म
गम् धातु परोक्षेभूत (लिट्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगाम जग्मस्तुः जग्मुः
मध्यमपुरुषः जगमिथ, जगन्थ जग्मथुः जग्म
उत्तमपुरुषः जगाम, जगम जग्मिव जग्मिम
गम् धातु (अनघतनभविष्य लुट्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गन्ता गन्तारौ गन्तारः
मध्यमपुरुषः गन्तासि गन्तास्थः गन्तास्थ
उत्तमपुरुषः गन्तास्मि गन्तास्वः गन्तास्मः
गम् धातु (सामान्यभूतलुङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगमत् अगमताम् अगमन्
मध्यमपुरुषः अगमः अगमतम् अगमत
उत्तमपुरुषः अगमम् अगमाव अगमाम
गम् धातु (क्रिया विपत्तिलुङ्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगमिष्यत् अगमिष्यताम् अगमिष्यन्
मध्यमपुरुषः अगमिष्यः अगमिष्यतम् अगमिष्यत
उत्तमपुरुषः अगमिष्यम् अगमिष्याव अगमिष्याम
विसर्ग सन्धि में विसर्ग के पश्चात् स् या त् आने पर विसर्ग के स्थान पर स् हो जाता है। यथा-
सर्पः + सर्पति त्र् सर्पस्सर्पति
कः + त्वम् त्र् कस्त्वम्
मुनिः + तु त्र् मुनिस्तु
इस सन्धि में पद के अन्तिम स् को रु आदेश होता है तथा रु के उ का लोप हो जाता है।
मुनिः + न त्र् मुनिर्न
मुनेः + उत्तरम् त्र् मुनेरुत्तरम्
विसर्ग के पूर्व अ हो और बाद में भी अ हो तो विसर्ग का ओ तथा बाद के अकार का पूर्व रूप
(ऽ) हो जाता है।
यथा-
कः + अपि त्र् कोऽपि
सः + अपि त्र् सोऽपि
लेखक परिचयः
विश्वकथासाहित्य में रूसी लेखक लियो टाल्स्टाय की अत्यधिक प्रसिद्धि है। सात्विकता से पूर्ण एवं धरती से जुड़ी हुई कहानियों के लेखक के रूप में टाल्स्टाय ने विश्वकथा जगत् को बहुत प्रभावित किया था। इनका महान् उपन्यास ‘वार एण्ड पीसउन्नीसवीं शताब्दी के क्रीमियायुद्ध के कथानक पर आधारित है जो युद्ध की निरर्थकता और शान्ति के पक्ष में वातावरण प्रस्तुत करता है। टाल्स्टाय के विचारों का महात्मा गान्धी पर बहुत प्रभाव पड़ा था। दोनों में पत्राचार भी होता था। विश्व की प्रमुख भाषाओं में भी टाल्स्टाय की रचनाओं के अनुवाद हुए हैं। संस्कृत में भी उनकी रचनाएँ अनूदित हैं जो ‘टाल्स्टाय कथा संग्रहःके नाम से प्रसिद्ध हैं।
प्रस्तुत कथा प्रसिद्ध रूसी कथाकार लियो टाल्स्टाय की एक बहुप्रचलित कहानी के अंग्रेज़ी शीर्षक ष्टजीतममुनमेजपवदष्ठ का अनूदित संक्षिप्त पुनराख्यान है। यह कहानी सेवा एवं परोपकारपरक होने के अतिरिक्त हृदय परिवर्तनकारी है। कहानी में मानव की महत्ता भी प्रतिपादित है। इस कथा का पुनराख्यान प्रो. उमाशंकर शर्मा ‘ऋषिके द्वारा किया गया है। प्रो. ऋषि न केवल प्रसिद्ध समीक्षक हैं अपितु विदग्ध रचनाकार के रूप में भी प्रसिद्ध हैं। संस्कृत में आपकी एक मौलिक कथा
‘एकाकित्वम्साहित्य अकादमी नयी दिल्ली से प्रकाशित ‘संस्कृत लघुकथा संग्रहमें संकलित है।

Comments

Popular Posts